हिंसार्थानां च समानकर्मकाणाम्

3-4-48 हिंसार्थानां च समानकर्मकाणाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् तृतीयायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तृतीयायामित्येव। हिंसा प्राण्युपघातः। तदर्थानां धातूनामनुप्रयोगधातुना समानकर्मकाणां तृतीयान्त उपपदे णमुल् प्रत्ययो भवति। दण्डोपघातं गाः कालयति। दण्डेनोपघातम्। दण्डताडम्। दण्डेन ताडम्। समानकर्मकाणामिति किम्? चोरं दण्डेनोपहत्य गोपालको गाः कालयति॥

Siddhanta Kaumudi

Up

तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'धातुसम्बन्वे' इत्यधिकारादनुप्रयोगधातुना समानकर्मत्वं विज्ञायते, इत्याह - अनुप्रयोगधातुनासमानकर्मकाणामिति । कालयति ।'कल विक्षेपे' चुरादिः । दण्डताडमिति ।'तड आघाते' चुरादिरेव । उपहत्येति ।'वा ल्यपि' इत्यनुनासिकलोपः, ह्रस्वस्य तुक् ॥