उपदंशस्तृतीयायाम्

3-4-47 उपदंशः तृतीयायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<दंश दशने>> अस्माद् धातोरुपपूर्वात् तृतीयान्त उपपदे णमुल् प्रत्ययो भवति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशम्। आर्द्रकोपदंशम्। आर्द्रकेणोपदंशम्। अत्र विकल्पेनोपपदसमासः <<तृतीयाप्रभृतीन्यन्यतरस्याम्>>२.२.२१ इति। मूलकादि चोपदंशेः कर्म। भुजेः करणम्। सर्वस्मिन्नेवात्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति। मूलकेनोपदश्य भुङ्क्ते॥

Siddhanta Kaumudi

Up

इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् <{SK784}> इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इतः प्रभृति पौर्वकाल्यमप्यस्ति । मूलकोपपदंशं भुङ्क्ते इति । ननु च नात्र तृतीयान्तस्योपदंशिना संबन्धः, न हि मूलकेनान्य उपदश्यते, किं तर्हि ? तदेवोपदश्यते, भुजिना तु संबन्ध उपपद्यते ; तम्प्रति करणत्वात्, किं तूपदंशिना समार्थ्याभावात्प्रत्ययो न प्राप्नोति, उपपदसंज्ञा च नस्यात्, तदभावादुपपदसमासोऽपि न प्राप्नोति, वचनस्य तु दशनैरुपदश्य भुङ्क्ते इत्यादिरवकाशः स्यात् ? इत्यत आह - मूलकादि चेति । सत्यं मूलकादेर्भुजिनैव शाब्दोऽन्वयः, उपदंशिना तु कर्मापेक्षायां सन्निधानाद्योग्यत्वाच्च वस्तुतः सम्बन्धोऽस्त्येव, भुजिं प्रति करणत्वमन्यथा नोपपद्यते, ततश्चायमर्थः - मूलकेन भुङ्क्ते, किं कृत्वा ? उपदश्य, किमुपदश्य ? तदेव मूलकमिति । यदि तु यत्र तृतीयान्तेनैव शाब्दोऽन्वयस्तत्रैवायं प्रत्ययोऽभिमतः स्यात्, करण इत्येव ब्रूयाद्, यथा - करणे हन इति । तस्मादार्थेन सम्बन्धेन सामर्थ्ये सति प्रत्ययादिकं सर्वं भविष्यति ॥