ऊर्ध्वे शुषिपूरोः

3-4-44 ऊर्ध्वे शुषिपुरोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्त्रोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्तृग्रहणमनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूरोर्धात्वोर्णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यत इत्यर्थः॥

Siddhanta Kaumudi

Up

ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥