3-4-42 सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् बन्धः
संज्ञायां विषये बध्नातेर्धातोर्णमुल् प्रत्ययो भवति। क्रौञ्चबन्धं बध्नाति। मयूरिकाबन्धं बध्नाति। मयूरिकाबन्धं बद्धः। अट्टालिकाबन्धं बद्धः। बन्धविशेषाणां नामधेयान्येतानि॥
बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥
अनधिकरणार्थोऽयमारम्भः, पूर्वयोगस्त्वसंज्ञार्थः । कथं तर्हि ग्रामे बन्ध इति ? वासरूपविधिना घञ् भविष्यति ॥