3-4-41 अधिकरणे बन्धः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
अधिकरणवाचिन्युपपदे बध्नातेर्धातोर्णमुल् प्रत्ययो भवति। चक्रबन्धं बध्नाति। कूटबन्धं बध्नाति। मुष्टिबन्धं बध्नाति। चोरकबन्धं बध्नाति। चोरके बध्नातीत्यर्थः॥
चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥