हस्ते वर्त्तिग्रहोः

3-4-39 हस्ते वर्तिग्रहोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करण इत्येव। हस्त इत्यर्थग्रहणम्। वर्तिर्ण्यन्तः। हस्तवाचिनि करण उपपदे वर्तयतेर्गृह्णातेश्च णमुल् प्रत्ययो भवति। हस्तेन वर्तयति हस्तवर्तं वर्तयति। करवर्तम्। पाणिवर्तम्। ग्रहेः खल्वपि — हस्तेन गृह्णाति हस्तग्राहं गृह्णाति। करग्राहम्। पाणिग्राहम्॥

Siddhanta Kaumudi

Up

हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

'जीवे ग्रहः, हस्ते च, वर्तेश्च' इति नोक्तम्, तत्र कर्मोपपदम्, इह तु करणम् । वर्तिर्ण्यन्त इति । निर्देश एवात्र प्रमाणम् । हस्तवर्तं वर्तयतीति । हस्तेन वर्तयति, गुलिकां करोतीत्यर्थः ॥