3-4-38 स्नेहने पिषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
करण इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करण उपपदे पिषेर्धातोर्णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पिनष्टीत्यर्थः॥
स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥
व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह - स्नेहनवाचिनीति । उदपेषमिति ।'पेषंवासवाहनधिषु च' इत्युदकस्योदभावः ।'शुष्कचूर्ण' इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ॥