करणे हनः

3-4-37 करणे हनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Kashika

Up

index: 3.4.37 sutra: करणे हनः


करणे उपपदे हन्तेर्धातोः णमुल् प्रत्ययो भवति। पाणिघातं वेदिं हन्ति। पादघातं भूमिं हन्ति। हिंसार्थानां च समानकर्मकाणाम् 3.4.48। इति णमुलं वक्ष्यति। अहिंसार्थोऽयमारम्भः। नित्यसमासार्थो वा यथा विध्यनुपर्योगार्थश्च। पूर्वविप्रतिषेधेन हन्तेः हिंसार्थस्य अपि प्रत्ययोऽनेन एव इष्यते। असिघातं हन्ति। शरघातं हन्ति।

Siddhanta Kaumudi

Up

index: 3.4.37 sutra: करणे हनः


पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च <{SK3369}> इति वक्ष्यते ॥

Padamanjari

Up

index: 3.4.37 sutra: करणे हनः


नित्यसमासार्थं चेति ।'हिसार्थानाम्' इत्यनेन णमुलि'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः । कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः,'हिंसार्थानाम्' इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह - पूर्वविप्रतिषेधेनेति । कथं तर्हि'हिंसार्थानाम्' इत्यत्रोदाहरिष्यते - दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः - यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः;'कषादिषु यथाविध्यनुप्रयोगः' इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः । इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि - जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ॥