समूलाकृतजीवेषु हन्कृञ्ग्रहः

3-4-36 समूलाकृतजीवेषु हन्कृञ्ग्रहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीत्येव। समूल अकृत जीव इत्येतेषु शब्देषु कर्मसूपपदेषु यथासंख्यं हन् कृञ् ग्रह इत्येतेभ्यो धातुभ्यो णमुल् प्रत्ययो भवति। समूलघातं हन्ति। समूलं हन्तीत्यर्थः। अकृतकारं करोति। जीवग्राहं गृह्णाति॥

Siddhanta Kaumudi

Up

कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥