3-4-35 शुष्कचूर्णरूक्षेषु पिषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि
कर्मणीत्येव। शुष्कादिषु कर्मवाचिषूपपदेषु पिषेर्धातोर्णमुल् प्रत्ययो भवति। शुष्कपेषं पिनष्टि। शुष्कं पिनष्टीत्यर्थः। चूर्णपेषं पिनष्टि। चूर्णं पिनष्टीत्यर्थः। रूक्षपेषं पिनष्टि। रूक्षं पिनष्टीत्यर्थः॥
एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥