निमूलसमूलयोः कषः

3-4-34 निमूलसमूलयोः कषः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणीत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेर्धातोर्णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषतीत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति, तत्र <<कषादिषु यथाविध्यनुप्रयोगः>>३.४.४६ इति॥

Siddhanta Kaumudi

Up

कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ॥