चेले क्नोपेः

3-4-33 चेले क्नोपेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि वर्षप्रमाणे

Kashika

Up

index: 3.4.33 sutra: चेले क्नोपेः


कर्मणि इत्येव। क्नूयी शब्दे उन्दने च, अस्माण्ण्यन्ताद् धातोः चेलार्थेषु कर्मसु उपपदेषु णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने। चेलक्नोपं वृष्टो देवः। वस्त्रक्नोपम्। वसनक्नोपम्।

Siddhanta Kaumudi

Up

index: 3.4.33 sutra: चेले क्नोपेः


चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥

Padamanjari

Up

index: 3.4.33 sutra: चेले क्नोपेः


अस्माद्धातोर्ण्यन्तादिति । पुका निर्देशादेव ण्यन्तत्वमवसीयते, व्याख्यानाच्चेल इत्यर्थग्रहणमित्याह - चेलार्थेष्विति । चेलक्नीपं वृष्ट इति । चेलं क्नोपयनुशब्दाययन्वृष्ट इत्यर्थः । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इति यावत् ॥