3-4-32 वर्षप्रमाणे ऊलोपः च अस्य अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि पूरेः
कर्मणीत्येव। पूरयतेर्धातोर्णमुल् प्रत्ययो भवति, ऊलोपश्चास्य पूरयतेरन्यतरस्यां भवति, समुदायेन चेद् वर्षस्य प्रमाणमियत्ता गम्यते। गोष्पदपूरं वृष्टो देवः। गोष्पदप्रं वृष्टो देवः। सीतापूरं वृष्टो देवः। सीताप्रं वृष्टो देवः। अस्यग्रहणं किमर्थम्? उपपदस्य मा भूत् — मूषिकाबिलपूरं वृष्टो देवः। मूषिकाबिलप्रम्॥
कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥
गोष्पदपूरमिति । गोः पदं पूरयन्वृष्ट इत्यर्थः, वृषरेकर्मकत्वात्कर्तरि क्तः । अत्रापि'पूर्वकाले' इति न सम्बन्धनीयमित्याहुः । सीतापूरमिति । सीताउलाङ्गलपद्धतिः । अस्यग्रहणं किमर्थमिति । सन्निधानादेव पूरयतेरूलोपो विज्ञास्यत इति प्रश्नः । उपपदस्य मा भूदिति । अस्येत्यनुच्यमाने वर्षप्रमाणवदूलोपोऽपि समुदायविषयो विज्ञायेत - प्रकृत्युपपदसमुदाये सन्निहितो य ऊकारस्तस्य लोप इति, ततश्चोपपदस्यापि स्यादिति भावः । ठूलोपश्चास्यान्यतरस्याम्ऽ इति शक्यमकर्तुम् । कथं गोष्पदप्रमिति ?'प्रापूरणे' इत्यस्माद्धातोः ठातोऽनुपसर्गे कःऽ, क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे, न रूपभेदः, नार्थभेदः, न स्वरभेदः । कप्रत्यये थाथादिसूत्रेणान्तोदातत्वम्; णमुल्यूलोपे कृते पूर्वस्य स्वरभाजोऽभावात्'लिति' इत्यस्याप्रवृतौ प्रत्ययखरः, तस्य कृदुतरपदप्रकृतिस्वरेणावस्थानमित्यन्तोदातत्वमेव । ननु च णमुलि सति'कृन्मेजन्तः' इत्यव्ययत्वाद्विभक्तीनां श्रवणं न भवति, तरपि च गोष्पदप्रतरपमिति भवति, कल्पबादौ च गोष्पदप्रकल्प इति भवति, अज्ञातादिषु चाव्ययत्वादकज्भवति, के तु सति सर्वमेतन्न सिद्ध्यति ? उच्यते; इष्यते तावद्विभक्तीनां श्रवणमेकेन गोष्पदप्रेणेति, तरबादिषु चोपन्यस्तानि रूपाणि नेष्यन्त एव । एतच्च भाष्ये ऊलोपप्रत्यख्यानादवसीयते । ननु च गोष्पदपूरमित्याद्यपि घञैव सिद्धम् ? न सिद्ध्यति, यदि तावत्करणे घञं विधाय तदन्तेन कर्मणि षष्ठयाः समासः क्रियते, ततस्थाथादिस्वरेणान्तोदातत्वं स्याद् । अथ भावे घञि व्यधिकरणपदो बहुव्रीहिः क्रियते - गोष्पदस्य पूरणमस्मिन्वर्ष इति, ततः पूर्वपदप्रकृतिखरप्रसङ्गः । गोष्पदपूरन्तराम्, गोष्पदपूरङ्कल्पमित्यादि च न सिद्ध्यति, तस्माद्'वर्षप्रमाणे' इति वक्तव्यम् ॥