चर्मोदरयोः पूरेः

3-4-31 चर्मोदरयोः पूरेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् कर्मणि

Kashika

Up

index: 3.4.31 sutra: चर्मोदरयोः पूरेः


कर्मणि इत्येव। चर्मोदरयोः कर्मणोरुपपदयोः पूर्यतेः णमुल् प्रत्ययो भवति। चर्मपूरं स्तृणाति। उदरपूरं भुङ्क्ते।

Siddhanta Kaumudi

Up

index: 3.4.31 sutra: चर्मोदरयोः पूरेः


कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥

Padamanjari

Up

index: 3.4.31 sutra: चर्मोदरयोः पूरेः


कर्मणीत्यनुवृतेः पूरेरिति ण्यन्तस्येदं ग्रहणम्, केवलस्याकर्मकत्वादित्याह - पूरयतेरिति । उदरपूरं भुङ्क्त इति । उदरं पूरयन् भुङ्क्त इत्यर्थः । एवमादिषु प्रायेण पौर्वकाल्यं नास्ति, तस्मात्'पूर्वकाले' इति न सम्बन्धनीयमित्याहुः ॥