कर्मणि दृशिविदोः साकल्ये

3-4-29 कर्मणि दृशिविदोः साकल्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मण्युपपदे साकल्यविशिष्टेऽर्थे दृशिविदोर्धात्वोर्णमुल् प्रत्ययो भवति। कन्यादर्शं वरयति। यायाः कन्याः पश्यति तास्ता वरयतीत्यर्थः। ब्राह्मणवेदं भोजयति। यंयं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयतीत्यर्थः। साकल्य इति किम्? ब्राह्मणं दृष्ट्वा भोजयति॥

Siddhanta Kaumudi

Up

कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कर्मण्युपपदे साकल्यविशिष्ट इति । सकलस्य भावः साकल्यम्, तद्विशिष्टे कर्मण्युपपदे इत्यर्थः । कन्यादर्शं वरयतीति । अत्र दर्शनविषयभूतानां सर्वासामेव कन्यानां वाक्यार्थेनान्वयात्साकल्यम्, सर्वाः कन्या वरयतीत्यत्रापि दर्शनविषयभूता इत्यर्थः । अतिशयप्रतिपादनपरं चैतत्; यस्मात्कस्याश्चित्परित्यागेऽपि भवत्येव । जानाति लभते विचारयति वेति । सतार्थस्य तु विदेरकर्मकत्वादग्रहणमिति भावः ॥