3-4-28 यथातथयोः असूयाप्रतिवचने प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृञः णमुल् सिद्धाप्रयोगः चेत्
कृञः सिद्धाप्रयोग इति वर्तते। यथातथाशब्दयोरुपपदयोः कृञो णमुल् प्रत्ययो भवत्यसूयाप्रतिवचने गम्यमाने। यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम्। यथाकारमहं भोक्ष्ये तथाकारमहम्, किं तवानेन? असूयाप्रतिवचन इति किम्? यथा कृत्वाहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि। सिद्धाप्रयोग इत्येव — यथा कृत्वाहं शिरो भोक्ष्ये, किं तवानेन॥
कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकारमहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥
यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । ठसु मानसोपतापेऽ कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुअमनर्हः सन्यदि पृच्छति तदेदमुतरम् । यथा कृत्वाहं भोक्ष्य इति । तत्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता'सिद्धाप्रयोगे' इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानातद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते - ठन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तःऽ,'कथं कृत्वा बाधकम्' इत्यादि ॥