अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्

3-4-27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगः चेत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृञः णमुल्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कृञ इत्येव। अन्यथादिषूपपदेषु कृञो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतिर्भवति। कथं पुनरसौ सिद्धाप्रयोगः? निरर्थकत्वाद् न प्रयोगमर्हतीत्येवमेव प्रयुज्यते। अन्यथा भुङ्क्त इति यावानर्थः, तावानेवान्यथाकारं भुङ्क्त इति गम्यते। अन्यथाकारं भुङ्क्ते। एवंकारं भुङ्क्ते। कथंकारं भुङ्क्ते। इत्थंकारं भुङ्क्ते। सिद्धाप्रयोग इति किम्? अन्यथा कृत्वा शिरो भुङ्क्ते॥

Siddhanta Kaumudi

Up

एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥

Laghu Siddhanta Kaumudi

Up

एषु कृञो णमुल् स्यात् । सिद्धोऽप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । सिद्धेति किम्? शिरोऽन्यथा कृत्वा भुङ्क्ते ॥ इत्युत्तरकृदन्तम् ॥ इति कृदन्तम् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कथं पुनरसौ सिद्धाप्रयोग इति । सिद्ध ओदन इत्यादौ सिद्धशब्दो निष्पन्नवचनः, ततश्च सिद्धश्चेदप्रयोगः कथमप्रयुज्यमानाततो णमुल्विधिरिति प्रश्नः ।'सिद्धे सत्यारम्भोनियमार्थः' इतिवत्प्राप्तवचनः सिद्धशब्द इत्युतरम् । निर्थकत्वादिति । निष्प्रयोजनत्वात् । एवमेवेति । निरर्थक एव सन्नित्यर्थः । एतदेव स्फोरयति - अन्यथा भुङ्क्त इति । यावानर्थ इति । उदाहरणेष्वनुप्रयोगेषु या क्रिया तत्प्रकारवचना अत्रान्यथादयः । अन्यथा कृत्वा शिरो भुङ्क्त इति । अत्र तु विना करोतिना शिरसोऽन्यथाकरणं न प्रतीयते, भुजिक्रियागत एव प्रकारे गम्यते, अतोऽवश्यं प्रयोज्यः करोतिः ॥