स्वादुमि णमुल्

3-4-26 स्वादुमि णमुल् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् समानकर्तृकयोः पूर्वकाले कृञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समानकर्तृकयोः पूर्वकाले कृञ इति चानुवर्तते। स्वादुमीत्यर्थग्रहणम्। स्वाद्वर्थेषूपपदेषु कृञो णमुल् प्रत्ययो भवति। स्वादुंकारं भुङ्क्ते। संपन्नंकारं भुङ्क्ते। लवणंकारम्। स्वादुमीति मकारान्तनिपातनमीकाराभावार्थम्, च्व्यन्तस्यापि मकारार्थम्, दीर्घाभावार्थं च। अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुंकारं भुङ्क्ते। वासरूपेण क्त्वापि भवति। स्वादुं कृत्वा भुङ्क्ते। तुमर्थाधिकाराच्च सर्व एते भावे प्रत्ययाः। यद्येवं स्वादुंकारं भुङ्क्ते देवदत्त इति णमुला कर्तुरनभिहितत्वात् कर्तरि कस्मात् तृतीया न भवति? भुजिप्रत्ययेनाभिहितः कर्ता। न चास्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्यते, समानकर्तृकत्वं हि विरुध्यते। प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत् प्रकाशते॥

Siddhanta Kaumudi

Up

स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादीं स्वादीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

स्वादुमीत्यर्थग्रहणमिति । एतच्च व्याख्यानाल्लभ्यते । स्वाद्वर्थेष्विति । मान्तत्वमपि सर्वेषां भवति; अर्थे सम्भावत् । लवणसम्पन्नशब्दावपि स्वादुशब्दापर्यायो । अथ'स्वादुमि' इति मकारान्तनिपातनं किमर्थम्, याषता खमुञ् प्रकृतः, सोऽनुवतिष्यते, तत्र ठरुद्विषदजन्तस्य मुम्ऽ इति मान्तत्वं सिद्धमिति ? तत्राह - मकारान्तनिपातनमीकाराभावार्थमिति । भावप्रत्ययविषये मान्तत्वे निपात्यमाने'वोतो गुणवचनात्' इति ङीप् न भवति, मकारान्तत्वादुकारान्तत्वाभावादित्यर्थः । च्व्यन्तस्येति । खमुञ्यपि न सर्वत्र मुम् सिद्ध्यति; तद्विदौ ठनव्ययस्यऽ इत्यधिकारादिति भावः । एवं तर्हि मान्तत्वमेव निपात्यताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधेयः ? नैतदस्ति; अव्ययार्थमेव मान्तनिपातनं स्यादिति ङीप्स्यादेव । णमुलि तु मान्तत्वमपूर्वं विधीयमानमीकाराभावार्थं च च्व्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोतरत्र णमुल् विधेय इति लाघवाभावादिहैव कृतः । अस्वाद्वीं स्वाद्वीं कृत्वेति । द्वयोर्वाक्ययोस्तन्त्रेणोपादानमेतत् । स्वाद्वीं कृत्वा यवागूं भुङ्क्त इतीकाराभावस्योदाहरणम्, अस्वादुअं स्वादुअं भुङ्क्त इत्यव्ययस्य । इह यदि क्त्वादयः प्रत्ययाः'कर्तरि कृत्' इति वचनात्कर्तरि स्युः, इह पक्त्वोदनो भुज्यते देवदतेनेति देवदतातृतीया न स्यात्, क्त्वाप्रत्ययेनाभिहितः कर्तेति । अथ क्त्वाप्रत्ययेनाभिधाने सत्यपि भुजिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रया विभक्तिर्भवति तृतीया ? यद्येवम्, ओदने द्वितीया प्राप्नोति, किं कारणम् ? भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिहितं कर्मेति । तथा यदि कर्मणि स्युः, पक्त्वौदनं भुङ्क्ते देवदतेन, पक्त्वौदनं भुङ्क्ते देवदत इत्येव तु भवति । तथास्मिन् णमुल्यपि स्वादुङ्कारं भुज्यते यावगूर्देअवदतेनेति यवाग्वा द्वितीया न भवति, स्वादुङ्कारं यवागूं भुङ्क्ते देवदत इत्यत्रापि कर्मणि द्वितीया भवति, कर्तरि तृतीया च न भवति । एवमा तुमुनो द्रष्टव्यम् । तथा'तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' 'समानकर्तृकेषु तुमुन्' इत्यत्रापि तुमुनि भोक्तुमोदनः पच्यते देवदतेन, इष्यते ग्रामो गन्तुं देवदतेन, भोक्तुमोदनं पचति देवदतः, ग्रामं गन्तुमिच्छति देवदत इति सर्वत्रानुप्रयोगात् यत्र लादयस्तदनुरोधेनैव कर्तृकर्मणोर्विभक्तिर्भवति । तस्मादव्ययकृतः समानाधिकरण इति वक्तव्यम्, केन सामानाधिकरण्ये ? अनुप्रयोगेण । एतदुक्तं भवति - अनुप्रयुज्यमानाद्धातोर्यस्मिन्कारके लादयो विहितास्तत्रैवाव्ययकृतोऽपि भवन्तीति । एवं ह्युभाभ्यां कर्तृकर्मणोरभिहितत्वाद्यथायथं विभक्तयः सिद्ध्यन्ति । वृत्तिकारस्त्विममर्थमन्यथा साधयितुमाह - तुमर्थाधिकाराच्चेति । तत्र सयादिसूत्रे तुमर्थग्रहणातमुन् भावे भवतीति ज्ञापितम्, तदेव च तुमर्थग्रहणं'शकधृषज्ञा' इतियावदनुवर्तते, अतः सर्व एते क्त्वादयो भावे भवन्तीति तत्र चोदयति - यद्येवमिति । तृतीया कस्मान्न भवतीति । एतच्चोपलक्षणम्, स्वादुङ्कारं यवागूःभुज्यते देवदतेनेत्यत्र कर्मणि द्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । ठनभिहितेऽ इति पर्युदासे चैतच्चोद्यम् - तदा हि सत्यभिधानेऽनभिधाने च यतोऽनभिधानं तदाश्रया विभक्तिः प्राप्नोति । परिहरति - भुजिप्रत्ययेनेति । ठनभिहितेऽ इति प्रसज्यप्रतिषेध आश्रीयते इति भावः । तदा हि यतोऽभिधानं तदाश्रयः प्रतिषेधो भवति । ननु च शक्तिः कारकम्, अन्या च करणविषया शक्तिः, अन्या च भुजिविषया, तत्र यद्येकस्या शक्तेरभिधानमनभिधानं च स्यात्, स्यादयं परिहारः, यतोऽभिधानं तदाश्रयः प्रतिषेध इति शक्तिभेदात्वयुक्तः ? इत्यत्राह - न चास्मिन्निति । किं कारणं भेदो न विवक्षितः ? इत्याह - समानकर्तृकत्वं हि विरुध्यत इति । ननु च मा नामास्मिन्प्रकरणे शक्तिभेदो विवक्षितः, ठनभिहितेनऽ इत्यत्र कस्मान्न विवक्ष्यते ? असम्बद्धमेतत् ; कथं हि तस्मिन्नेव प्रयोगे तदैव विवक्षाविवसे स्याताम् । किञ्चि - ठनभिहितेऽ इत्येकत्वादीनामाधारनिर्देशोऽनभिहिते कर्मादौ यदेकत्वादि तत्रेति, द्रव्यमेव चैकत्वादीनामाधारो न शक्तिः, अतस्तत्रापि द्रव्यमेवानभिहितमित्युच्यते, तस्य च शक्तिद्वारेणाभिधानानभिधानयोः सतोर्यतोऽभिधानं तदाश्रयः प्रतिषेधो भवतीति युक्तमेव । अभ्युपेत्यापि शक्तिभेदविवक्षां परिहारमाह - प्रधानशक्त्यभिधाने चेति । आख्यातपदवाच्या क्रिया विशेष्यत्वात्प्रधानम्, विशेषणभूता त्वप्रधानम्, तद्द्वारेण तद्विषययोः शक्त्योरपि गुणप्रधानभावः । तत्र प्रधानानुवतित्वाद् गुंणानां तन्मुखप्रेक्षित्वातद्विरुद्धस्वकार्यारम्भाभावाद्यथायथं विभक्तिसिद्धिरित्यर्थः । उक्तं च - प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथके । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति । वयं तु ब्रूमः - सकृत् श्रुतस्य युगपदुभाभ्यां सम्बन्धाभावादेकेनैव प्रधानेन शाब्दोऽन्वय इति, इतरेण तु सन्निधानादार्थ इति ॥