विभाषाऽग्रेप्रथमपूर्वेषु

3-4-24 विभाषा अग्रेप्रथमपूर्वेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा समानकर्तृकयोः पूर्वकाले णमुल् च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अप्राप्तविभाषेयम्। आभीक्ष्ण्य इति नानुवर्तते। अग्रे प्रथम पूर्व इत्येतेषूपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययौ विभाषा भवतः। अग्रे भोजं व्रजति। अग्रे भुक्त्वा व्रजति। प्रथमं भोजं व्रजति। प्रथमं भुक्त्वा व्रजति। पूर्वं भोजं व्रजति। पूर्वं भुक्त्वा व्रजति । विभाषाग्रहणमेताभ्यां मुक्ते लडादयोऽपि यथा स्युः। अग्रे भुङ्क्ते ततो व्रजति। ननु च वासरूप इति भविष्यति? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्नास्तीत्येतदनेन ज्ञाप्यते। तेनाभीक्ष्ण्ये लडादयो न भवन्ति। उपपदसमासः कस्माद् न भवति? उक्तं तत्रैवकारस्य प्रयोजनम् — अमैव यत्तुल्यविधानमुपपदं तत् समस्यते, नान्यदिति॥

Siddhanta Kaumudi

Up

आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अग्रशब्दो देशविशेषवचनोऽप्यस्ति - प्रभोरग्रे भुङ्क्ते इति, इह तु प्रथमशब्दसाहचर्यात्कालविशेषवाचिनो ग्रहणम् । अनुकरणत्वाच्चाग्रे इति विभक्तेर्लुगभावः - अस्यवामीयमिति यथा । आमीक्ष्ण्य इति नानुवर्तत इति । अप्राप्तविभाषेयमित्यत्रेयंयुक्तिः । तदनुवृतौ हि पूर्वसूत्रेण प्राप्ते विभाषा स्याद्, एवं च ब्रुवता साधनपोर्वकाल्यविषया अग्र्यादय इत्युक्तं भवति । क्रियापौर्वकाल्ये हि अग्र्यादिभिरेव तस्योक्तत्वादाभीक्ष्ण्येऽपि क्त्वाणमुलोरप्राप्तिरिति ठाभीक्ष्ण्येऽ इत्यनुवृतावप्यप्राप्तविभाषैव स्यात् । न च द्विर्वचनमन्तरेणाभीक्ष्ण्यं द्योतयितुं शक्यमिति न तद्द्योतनायापि क्त्वाणमुलोर्विधानमुपपद्यते । नन्वननुवर्तमानेऽप्याभीक्ष्ण्यग्रहणे पूर्वसूत्रस्यावकाशो यत्राग्र्यादयो न सन्ति, अस्य तु यत्राभीक्ष्ण्यं नास्ति सोऽवकाशः; आभीक्ष्ण्ये चाग्र्यादिषु च सत्सूभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोतीत्युभयत्र विभाषेयं युक्ता ? एवं मन्यते - पूर्वविप्रतिषेधेनाभीक्ष्ण्ये नित्य एव विधिर्भवतीति - अग्रेभोजंभोजं व्रजति, अग्रेभुक्त्वाभुक्त्वा व्रजति । एवं पूर्वप्रथमयोरपि द्रष्टव्यम् । नन्वेवं णमुल्यप्राप्ते क्त्वाप्रत्यये तु'समानकर्तृकयोः' इत्यादिना प्राप्ते सत्ययमारम्भ इति पुनरप्युभयत्रविभाषैव युक्ता ? नैतदस्ति; सह विहितौ यौ क्त्वाणमुलौ यद्विषये वासरूपविधेरभावो ज्ञापयितुमिष्टः, तावनन्तरसूत्रविहितौ क्त्वाणमुलावभिप्रेत्याप्राप्तविभाषेयमुच्यते, न तु क्त्वाणमुल्मात्रपेक्षया । क्त्वाणमुलौ प्रत्ययौ भवत इति । किमर्थं पुनः क्त्वा विधीयते, यावता नाभीक्ष्म्येऽपि समानकर्तृकयोरित्येवासौ सिद्धः ? सत्यम् ; विभाषाग्रहणेन वासरूपविधेरभावो ज्ञाप्यत इति वक्ष्यति । न च केवलं णमुल्विधौ तदभावो ज्ञापयितुमिष्यते, किं तर्हि ? क्त्वासहितणमुल्विधौ । तस्माण्णमुलः क्त्वासहितस्य विधिर्यथा स्यादिति णमुल् चेत्यनुवृत्या क्त्वोऽप्यनुवादः क्रियते । एवं हि द्वयोः सह विधातुमुपादीयमानं विभाषाग्रहणं तादृश एव विषये वासरूपविधेरभावं ज्ञापयतीति सिद्धमिष्टम् । अग्रेभोजं व्रजतीति । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीत्यर्थः । आभीक्ष्ण्ये लडादयो न भवन्तीति । अग्रे भुङ्क्ते भुङ्क्ते ततो व्रजतीत्येवं न भवतीत्यर्थः । उपपदसमासः कस्मान्न भवतीति । प्राप्तविभाषायामस्यामग्र्यादीनां पक्षे प्रत्ययनिवृतौ निमितत्वम्, न तु प्रत्ययोत्पतौ, तयोः ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेनाविशेषेण विहितत्वादित्यनुपपदत्वम् । अप्राप्तविभाषायां त्वग्र्यादीनां प्रत्ययोत्पतिं प्रति निमितत्वान्निमितस्य चोपपदसंज्ञाविधानादुपपदसमासः प्राप्नोतीति भावः । अमैव यतुल्यविधानमिति । एतच्च तत्रैव व्याख्यातम् ॥