3-4-23 न यदि अनाकाङ्क्षे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा समानकर्तृकयोः पूर्वकाले आभीक्ष्ण्ये णमुल् च
यच्छब्द उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये। यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद् वाक्यं न परं किञ्चिदाकाङ्क्षति इति। णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोऽपि प्रतिषिध्यते। यदयं भुङ्क्ते ततः पठित। यदयमधीते ततः शेते। अनाकाङ्क्ष इति किम्? यदयं भुक्त्वा व्रजति अधीत एव ततः परम्॥
यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥
अनाकाङ्क्ष इति । पचाद्यजन्तेन नञ्समासः, तद्दर्शितम् । नापरं किञ्चिदाकाङ्क्षते इति । क्त्वा तु पूर्वसूत्रविहितोऽपीति । णमुल् चेत्युक्तम्, तदपेक्षं पूर्वत्वमपिशब्दादनन्तरसूत्रविहितोऽपि आभीक्ष्ण्येनाभीक्ष्ण्ये च क्त्वामात्रस्य प्रतिषेध इत्यर्थः । एतच्च पूर्वकाले यत्प्राप्नोति तन्न भवतीत्येवं प्रकरणापेक्षया प्रतिषेधविज्ञानाल्लभ्यते ॥