3-4-20 परावरयोगे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा
index: 3.4.20 sutra: परावरयोगे च
परावराभ्यां योगः परावरयोगः। परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति। परेण तावत् अप्राप्य नदीं पर्वतः स्थितः। परनदीयोगेन पर्वतो विशिष्यते। अवरयोगे अतिक्रम्य तु पर्वतं नदी स्थिता। अवरपर्वतयोगेन नदी विशिस्यते।
index: 3.4.20 sutra: परावरयोगे च
परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥
index: 3.4.20 sutra: परावरयोगे च
परावरशब्दयोः सम्बन्धिशब्दत्वाद्यपदेक्षं परावरत्वम्, तयोः पूर्वपरयोरेव परावराभ्यां योगो गम्यते, इत्याह - परेण पूर्वस्येति । पूर्वशब्देनात्रावरो विवक्षितः । अप्राप्य नदीमिति । नद्याः पूर्वदेश इत्यर्थः । ततश्च नदी परा भवतीति । परनदीयोगेन पर्वतो विशेष्यति । अतिक्रम्य पर्वतमिति । पर्वतस्य परस्तादित्यर्थः । ततश्चावरः पर्वतो भवति तेनावरपर्वतयोगेन नदी विशेष्यते । अयमप्यपूर्वकालार्थ आरम्भः, अतिक्रमोऽत्र कीदृश इति चिन्त्यम् ॥