उदीचां माङो व्यतीहारे

3-4-19 उदीचां माङः व्यतीहारे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्त्वा तु वर्तते। माङो धातोर्व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति। अपमित्य याचते। अपमित्य हरति। अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते। उदीचांग्रहणात् तु यथाप्राप्तमपि भवति। याचित्वापमयते। हृत्वापमयते। मेङः कृतात्वस्यायं निर्देशः कृतो ज्ञापनार्थः — <<नानुबन्धकृतमनेजन्तत्वम्>> इति, तेन <<दाधा घ्वदाप्>>१.१.२० ‘इति दैपोऽपि प्रतिषेधो भवति॥

Siddhanta Kaumudi

Up

व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अपमित्येति ।'मेङ् प्राणिदाने' क्त्वो ल्यपि'गयतेरिदन्यतरस्याम्' इतीत्वं, ह्रस्वस्य तुक् । अपूर्वकालत्वादिति । पूर्व ह्यसौ याचते पश्चादपमयते । यदा चास्माद्वचनान्मयतेः क्त्वो भवति तदा'समानकर्तृकयोः' इत्यादिना याचने भवति, अनेन बाधितत्वात्, यथा - द्वितीयद्विर्वचनेन प्रथमद्विर्वचनम् । अनभिधानाद्वा । मेङ् इत्यादि । मेङेऽयं कृतात्वस्य निर्देशः कृतः, न पुनः'माङ् माने' इत्यस्य, तस्य व्यतिहारे वृत्यसम्भवादित्यर्थः । यद्येवम , मेङ् इत्येव वक्तव्यम्, तत्रायमप्यर्थो व्यतीहारग्रहणं न कर्तव्यं भवति, तत्राह - ज्ञापनार्थमिति । किं ज्ञाप्यत इत्याह - नानुबन्धकृतमिति । प्रयोजनमाह - तेनेति । यद्ययमर्थो न ज्ञाप्येत, ततः श्रूयमाणे पकारे दैप आत्वं न स्यात्; अनेजन्तत्वात्, ततश्चादाबिति प्रतिषेधे तस्य ग्रहणं न स्यात्,'दाप् लवने' इत्यस्यैव तु स्यात् ॥