क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः

3-4-2 क्रियासमभिहारे लोट् लोटः हिस्वौ वा च तध्वमोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् धातुसम्बन्धे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

धातुसंबन्ध इति वर्तते। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। प्रकृत्यर्थविशेषणं चैतत्। समभिहारविशिष्टक्रियावचनाद् धातोर्लोट् प्रत्ययो भवति सर्वेषु कालेषु। सर्वलकाराणामपवादः। तस्य च लोटो हि स्व इत्येतावादेशौ भवतः, तध्वंभाविनस्तु वा भवतः। योगविभागोऽत्र कर्तव्यः। क्रियासमभिहारे लोड् भवति। ततो लोटो हिस्वौ। लोडित्येव। लोड्धर्माणौ हिस्वौ भवत इत्यर्थः। तेनात्मनेपदपरस्मैपदत्वं भेदेनावतिष्ठते, तिङ्त्वं च द्वयोरपि भवति। लुनीहिलुनीहीत्येवायं लुनाति, इमौ लुनीतः,इमे लुनन्ति। लुनीहिलुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ। अथवा लुनीतलुनीतेत्येव यूयं लुनीथ। लुनीहिलुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः। भूते — लुनीहिलुनीहीत्येवायमलावीत्, अलाविष्टाम्, अलाविषुः। एवं मध्यमोत्तमयोरुदाहार्यम्। भविष्यति — लुनीहिलुनीहीत्येवायं लविष्यति, लविष्यतः, लविष्यन्ति। एवं मध्यमोत्तमयोरुदाहार्यम्। अधीष्वाधीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। अथवा अधीध्वमधीध्वमित्येव यूयमधीध्वे। अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे। एवं सर्वेषु लकारेषूदाहार्यम्। क्रियासमभिहाराभिव्यक्तौ द्विर्वचनमयं लोडपेक्षते — <<क्रियासमभिहारे द्वे भवतः>> (वा० ८.१.१२) इति। यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वाद् नापेक्षते द्विर्वचनम्॥

Siddhanta Kaumudi

Up

पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः>> - क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्रक्रियासमभिहारे लो॑डिति प्रथमं वाक्यम् । पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थविशेषणम् । क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु द्योतकः । तदाह — पौनः पुन्ये भृशार्थे च द्योत्ये इति । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् । सर्वलकारापवादः ।लोटो हिस्वा॑विति द्वितीयं वाक्यं व्याचष्टे — तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति । अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात् । तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाऽभावेनतङानावात्मनेपदटमित्स्याऽप्रवृत्तेः ।तिप्रतस्झी॑त्यादिसूत्रोपात्तेषु ताऽऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः । किंच अनयोर्हिस्वयोःतिप्तस्झी॑ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह — तौ चेति ।लोटो हिस्वा॑विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठआ विपरिणतं तृतीयं वाक्यं संपद्यते । तत्र हि 'लोटो हिस्वौ' इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते । तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते । कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति । तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम् । अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्संज्ञौ चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननुवा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह — तध्वमोर्विषयेत्विति । स्थानषष्ठीमाश्रित्यलोडादेशतध्वमोः स्थाने हिस्वा॑वित्यर्थ इति न भ्रमितव्यम्, येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठर्थः । तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः ।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम् । तथा चइणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते॑ इति भाष्यमनुपपन्नमित्यत आह — हिस्वविधानेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलेति । सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः,शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति ।अनुदात्तङित आत्मनेपदम्,॒भावकर्मणोरित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः ।

Padamanjari

Up

धातुसम्बन्ध इति वर्तत इति । अनुप्रयोगधातुना च सम्बन्धः । क्वचित्वयं ग्रन्थो न पठ।ल्ते । प्रकृत्यर्थविशेषणं चैतदिति । उपपदत्वाशङ्कां निरस्यति । व्याख्यानाच्चोपपदत्वाभावः । समभिहारविशष्टक्रियावचनादिति । क्रियाधर्मे समभिहारमात्रे धातोर्वृत्यसम्भवादेतदुक्तम् । अत्र यदि'लोटो हिस्वौ' इति वचनातस्यैव हिस्वौ स्याताम्, तदा सामान्यविहितानां तिङं शतृशानौभ्यामिव हिस्वाभ्यां बाधा स्यात्, ततस्तध्वमोर्लोट्स्थानिकयोरभावात्'वा च तध्वमोः' इति तयोः स्थानित्वेनोपादानमनुपपन्नमिति लोट्शब्देन तदादेशानां ग्रहणमित्युपलक्ष्यते । अस्तु तथा, को दोषः ? इह हि तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्वान्ङ्त्वाभावाल्लुनीइहितीत्वं न स्यात्, ब्रूहीति'ब्रुव ईट्' स्यात्, तृण्ढैइति'तृणह इम्' स्यात्, अनुदातत्वं च हेः प्रसज्येत ? नैष दोषः;'सेर्ह्यपिच्च' इत्यत्र योगविभागः करिष्यते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नाश्रीयते, सेर्हिर्भवति अपिच्च भवति यावान्कश्चिद्धिर्नामेति । यौ तर्ह्युतमादेशौ हिस्वौ, तरोयराडागमः प्राप्नोति - लुनीहिलुनीहीत्येवाहं लुनामि, अधीष्वाधीध्वेत्येवाहमधीय इति ? नैष दोषः; आटि कृते साट्कस्यादेशौ भविष्यतः, सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । हिस्वयोः पुनराट् न भविष्यति, इह ह्याट् क्रियातां हिस्वाविति सम्प्रधारणायामुभयोरनित्ययोः'शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति' इति परत्वादाटि कृते साट्कस्य हिस्वाविति सिद्धमिष्टम् । एवमपि हेर्योगविभागेन पित्वाभावेऽपि स्वशब्दस्योतमादेशस्य पित्वाद्भुङ्क्ष्वभुङ्क्ष्वेत्येवाहं भुञ्जे इत्यत्र'श्नसोरल्लोपः' इत्यकारलोपो न प्राप्नोति, ब्रूष्वब्रूप्वेत्येवाहं ब्रुवे'ब्रुव ईट्' प्राप्नोति, सर्वेषां च तिङं द्वावपि हिस्वौ पर्यायेण स्यातां न तु'परस्मैपदानां हिः, इतरेषाअं स्वः' इति नियामकमस्ति । तस्माद्दुष्ट एवायं पक्ष इति मत्वा लकारस्यैवादेशौ हिस्वावाश्रयणीयाविति दर्शयति । तस्य च लोट इति । नन्वस्मिन्पक्षे'वा च तध्वमोः' इत्यनुपपन्नमित्युक्तं तत्राह - तध्वम्भाविनस्तु वा भवतीति । मुख्यार्थासम्भवे तध्वम्भावी लोडेव तथोच्यते इत्यर्थः । यदि तर्हि लोट एव हिस्वावादेशौ न तदादेशानाम्,'लः परस्मैपदम्' इति द्वयोरपि परस्मैपदसंज्ञा स्यात्, ततश्च द्वावपि परस्मैपदिभ्य एव स्याताम् । तिङ्क्ष्वसन्निवेशाच्च तदन्तस्य तिङ्न्तता न स्यात्, ततश्च'तिङ्ङतिङः' इति निघातो न प्राप्नोति । हिस्वयोश्च कृत्वातदन्तस्य शतृशानजन्तस्यैव प्रातिपदिकत्वात्स्वाद्यौत्पतिः प्राप्नोति, तत्र च विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोः'विभक्तिस्वरप्रतिरूपकाश्च निपाताः' 'निपातो' व्ययम्ऽ इत्यव्ययसंज्ञायां यद्यपि विभक्तीनां श्रवणं न भवति, तथापि ततः परस्य'तिङ्ङ्तिङ्' इति निघातः प्राप्नोति, द्वावपि च कर्तर्येव स्याताम्, न तु स्वादेशो भावकर्मकर्तृषु स्यात् । तस्मादयमपि पक्षो दुष्ट एव, तत्राह - लोडित्येवेति । एतेन द्वितीययोगे प्रथमान्तस्य लोड्ग्रहणस्यानुवृत्ति दर्शयति । तत्र च सामानाधिकरण्येन लोडित्यनेन हिस्वौ विशेष्येते, न षष्ठ।ल विपरिणामेन, च न हिस्वौ लोटौ भवतः; उच्यते चेदं लोटो हिस्वाविति, ततश्च धर्मातिदेशो विज्ञायते, तदाह - लोड्धर्माणौ तौ भवत इत्यर्थ इति । अत्र च लोट्शब्देन लोट्संबन्धिनौ हिस्वावुच्येते मुख्यलोट्संबन्धिनो धर्मस्यातिदेश्यस्यासम्भवात्प्रसिद्धौ लोट्संबन्धिनौ यौ हिस्वौ,'सेर्ह्यपिच्च' 'सवाभ्यां वामौ' इति विहितौ, तद्धर्माणावित्यर्थः । किं सिद्धं भवति ? तद्दर्शयति - तेनेति । तयोहि परस्मैपदात्मनेपदत्वं भेदेन व्यवस्थितम् - हेः परस्मैपदत्वम्, स्वस्यात्मनेपदत्वमिति । अतस्तद्धर्मातिदेशादिहापि तदुभयं भेदेन, व्यवतिष्ठते, भेदेन भविष्यतीत्यर्थः । तिङ्त्वं च भवतीति । तथा च - हीत्यस्य कर्ता वाच्यः, स्वशब्दस्य तु भावकर्मकर्तारः । पुरुषैकवचनसंज्ञे तु विधानसामर्थ्यान्न भवतः, यदि हि ते अपि स्याताम्, हिस्वयोरनेन विधानमनुपपन्नं स्याद्; वचनान्तरेणैव तयोस्तादृशयोः सिद्धत्वात् । लुनीहि लुनीहीत्यादि । पुनः पुनर्लवनमयं करोतीत्यादिरर्थः । तत्र च लोडन्तं पुनः पुनर्लवनमाह, अनुप्रयोगधातुस्तु कृतिं तद्विषयां वदन् अभिव्यनक्ति, संमुग्ध तद्गतं साधनादिकम् । एवं च सामान्यविशेषयोर्विशेषणविशेष्यभावाद् धातुसम्बन्ध उपपद्यते, इत्येवशब्दौ, लोडन्तानुप्रयोगयोः सम्बन्धार्थौ, अयन्त्वमहंशब्दाः पुरुषविशेषाभिव्यक्तिहेतवः । अथ वेति ।'वा च तध्वमोः' इत्यस्य फलं दर्शयति । अलावीदिति । लुङ्, सिचि वृद्धिः, सिच इट्, तिपः ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ इति सिचो लोपः,'सिज्लोप एकादेशे सिद्धो वक्तव्यः' इति सवर्णदीर्घत्वम् । एवं मध्यमोतमयोरुदाहार्यमिति । लुनीहि तुनीहीत्येव त्वमलावीः अलाविष्टमलाविष्ट । अथा वा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येवाहमलविषमलाविष्व अलाविष्म । एवं मध्यमोतमयोरपीति । लुनीहि लुनीहीत्येव त्वं लविष्यसि लविष्यथः लविष्यथ । अथ वा लुनीत लुनीतेत्येव यूयं लविष्यथ । लुनीहि लुनीहीत्येवाहं लविष्यामि लविष्यावः लविष्यामः । एवं सर्वेषु लकारेषूदाहार्यमिति । लुनीहिलुनीहीत्येवायमलुनात् लुनातु लुनीयात् लूयात् लुलाव लविता लविष्यति अलविष्यत्; अधीष्वाधीष्वेत्येवायमध्यैत अधीतामधीयीत अध्येषीष्ट अधिजगे अध्यगीष्ट अध्यैष्ट अध्येता अध्यैष्यत अध्येष्यते । कर्मणि - लूयस्व लूयस्वेत्येवायं केदारो लूयत इत्यादि । भावे तु प्रसिद्धः स्वशब्दो दृष्टो न वेति चिन्त्यम् । अथोदाहरणेषु कथं द्विर्वचनम्, यावता क्रियासमभिहारं द्योतयितुं द्विर्वचनं विधीयते, स चात्र तस्मिन्नेव विधीयमानेन लोटैव द्योतितः, अथ द्योतितेऽपि तस्मिन्'क्रियासमभिहारे द्वे भवतः' इति वचनसामर्थ्यादत्र द्विर्वचनं यङ्न्तेऽपि प्राप्नोति, वक्तव्यो वा विशेषः ? तत्राह - क्रियासमभिहाराभिव्यक्ताविति ।'लः कर्मणि च' इति वचनाद्भावकर्मकर्तारोऽस्य वाच्याः, समभिहारस्तु द्विर्वचनेनैव द्योत्यः, यङ्स्तु न किञ्चिदन्यद्वाच्यं द्योत्यं वा विद्यते इति तेनैव क्रियासमभिहारस्य द्योतितत्वाद् द्विर्वचनाभावः । ननु च सन्तु भावकर्मकर्तारोऽस्य वाच्याः, समभिहारोऽप्युपाधित्वेन श्रुतः, सोऽपि लोटो द्योत्यो भवतु, यथा - लडादिषु वर्तमानादयः ? एवं तर्ह्यसति द्विर्वचने शुद्धस्य लोटोऽस्य च साधारणं रूपमिति समभिहाराभिव्यक्तयेऽवश्यं द्विर्वचनमपेक्ष्यते । शब्दशक्तिवैचित्र्यं चात्र हेतुः, यथा स्त्रीत्वं क्वचिदेकेनैव प्रत्ययेन द्योत्यते, क्वचिद् द्वाभ्याम्, क्वचित् दृषदित्यादो प्रातिपदिकेनैवेत्यलं प्रबन्धेन ॥