3-4-1 धातुसम्बन्धे प्रत्ययाः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.4.1 sutra: धातुसम्बन्धे प्रत्ययाः
धात्वर्थे धातुशब्दः। धात्वर्थानां सम्बन्धो धातुसम्बन्धः विशेषणविशेष्यभावः। तस्मिन् सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति। अग्निष्टोमयाज्यस्य पुत्रो जनिता। कृतः कटः श्वो भविता। भावि कृत्यमासीत्। अग्निष्टोमयाजी इति भूतकालः, जनिता इति भविष्यत्कालः। तत्र भूतः कालः भविष्यत्कालेन अभिसम्बध्यमानः साधुर्भवति। विशेषणं गुणत्वाद् विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति। प्रत्ययाधिकारे पुनः प्रत्ययग्रहणमधात्वधिकारविहिता अपि प्रत्ययाः तद्धिता धातुसम्बन्धे सति कालभेदे साधवो यथा स्युः इति। गोमानासीत्। गोमान् भविता। गावो विद्यन्तेऽस्य इति वर्तमानविहितो मतुप्, आसीत् भविता इति सम्बन्धाद्तीते भविष्यति च साधुर्भवति।
index: 3.4.1 sutra: धातुसम्बन्धे प्रत्ययाः
धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥
index: 3.4.1 sutra: धातुसम्बन्धे प्रत्ययाः
धातुसम्बन्धे प्रत्ययाः - धातुसम्बन्धे । धातुशब्देन धात्वर्थो लक्ष्यते । धात्वोः संबन्ध इति विग्रहः, संबन्धस्य द्विनिष्ठत्वात् । तथा च धात्वर्थयोः संबन्धे सति परत्ययाः स्युरिति लब्धम् । कस्मिन्नर्थे इत्याकाङ्क्षायां काले इति गम्यते, 'वर्तमाने ल' डित्यारभ्य तत्तत्कालविशेषेष्वेव प्रत्ययविधिदर्शनात् । तत्र तत्तद्विधिभिरेव तत्तत्कालविशेषे प्रत्ययसिद्धेस्ततोऽन्यस्मिन्काले इति गम्यते । तदाह — धात्वर्थानामित्यादिना । धात्वर्थयोरित्यर्थः । उदाहरणबहुत्वाभिप्रायं बहुवचनम् ।वर्तमानसामीप्ये वर्तमानवद्वे॑त्यादिसूत्रे यत्र काले ये प्रत्यया उक्तास्ते धात्वर्थयोः सम्बन्धे गम्ये ततोऽन्यमिन्नपि काले स्युरिति यावत् । तथा च 'वसन् ददर्शे' इत्यत्र लडादेशः शतृप्रत्ययो भूतकाले इतिसिद्धं भवति । ननुवसन् ददर्शे॑त्यत्र भूते लडिव वर्तमाने लिडितय्पि स्यादित्यत आह — तिङन्तेति । 'वसन् ददर्शे' त्यादौ तङन्तवाच्या दर्शनादिक्रिया प्रधानम् । वासादिक्रिया तु दर्शनादिक्रियार्थत्वाद्गुणभूता । अतः प्रधानभूतदर्शनादिक्रियानुसारेण गुणभूतवासादिक्रियावाचिभ्य एव इह प्रत्ययाः कालान्तरेषु विधीयन्त इत्यर्थः । भूते लडिति । एवं च उषित्वा ददर्शेत्यर्थ- । तदाह — अतीतेति । अत#ईति वासे कर्ता यस्येति विग्रहः ।सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकाद्व्यधिकणपदो बहुव्रीहिः । उदाहरणान्तरमाह — सोमयाजीति । सोमेन इष्टवान्यः स सोमयाजी । करणे यजः॑ इति भूते विहितो णिनिः, इह भवितेत्यनद्यतनभविष्यल्लहन्तप्रधानक्रियानुसारेण अनद्यतनभविष्यति बोध्यः । तदाह — सोमेन यक्ष्यमाण इति । भवनमिति । उत्पत्तरित्यर्थः ।गोमानासी॑दित्यप्युदाहार्यम् । अत्र गौरस्यास्तीति अस्तिक्रियायां वर्तमानायां वर्तमानायांतदस्यास्ती॑ति विहितो मतुप् गौरस्यासीदिति भूतायामस्तिक्रियायां भवति, धात्वर्थद्वयसंबन्धस्य सत्त्वात् । एतेन अर्थद्वारके धात्वोः संबन्धे इत्यपि व्याख्यानं परास्तम् । तथा सति परस्परसंबन्धार्थबोधकधातुद्वयप्रोगे प्रत्यया इत्यर्थलाभाद्गोमानासीदित्यत्र मतुबनापत्तेः । नहि धात्वोरिह प्रयोगोऽस्ति । धात्वर्थयोः सम्बन्धे इत्यर्थाभ्युपगमे तु गोमानासीदित्यत्र धातुद्वयप्रयोगाभावेऽपि धात्वर्थद्व्यस्य सत्त्वादासीदित्यर्थे मतुब्निर्बाध इत्यन्यत्र विस्तरः ।
index: 3.4.1 sutra: धातुसम्बन्धे प्रत्ययाः
प्रयोगे स्वार्थाभिधानव्यग्रयोर्धात्वोः परस्परेण सम्बन्धाभावादुपचरितवृत्तिरत्र दातुशब्द इत्याह - धात्वर्थे धातुशब्द इति । धात्वर्थानां सम्बन्धो धातुसम्बन्ध इति । सम्बन्धस्यानेकाधिष्ठानत्वात् वृतावपि संख्याविशेषोऽवगम्यत इति भावः । सकलविषयापेक्षया च बहुवचनम् । एकैकं विवक्षायां तु धात्वर्थयोः सम्बन्ध इति द्रष्टव्यम् । यदि तु कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमितिवद्धात्वोरेवार्थद्वारकः सम्बन्ध आश्रीयेत, इह तु न स्यात् - गोमानासीत्, गोमान् भवितेति, द्वयोर्हि प्रयुज्यमानयोः सम्बन्धो भवति, न चात्र वर्तमानकालेऽस्तिः प्रयुज्यते । कीदृशः पुनरयं धातुसम्बन्धः ? इत्याह - विशेषणविशेष्यभाव इति । तत्र तिङ्न्तवाच्योऽर्थो विशेष्यं तत्प्रधानत्वाद्वाक्यस्य; सुबन्तवाच्यस्तु विशेषणम्, कारकस्य क्रियां प्रति गुणभावात् । अयथाकालोक्ता अपीति । यस्मिन्काले विहितास्ततोऽन्यत्रापि प्रयुक्ता इत्यर्थः । एतेन कालमात्रस्यात्र बाधः, न तूपपदोपाधिप्रकृतिप्रत्ययार्थानामिति दर्शयति । एतच्च'वर्तमानसामीप्ये' इत्यारभ्य प्रायेण कालान्यत्वप्रतिपादनाल्लभ्यते । अग्निष्टोमयाजीति भूतकाल इति । भूतः कालो यस्येति बहुव्रीहिः, एतेन भविष्यत्काल इति व्याख्यातम् । तत्रेति । तयोर्मध्ये । भूतकालोऽग्निष्टोमयाजीत्येवशब्दो भविष्यत्कालेन जनितेत्यनेन सम्बद्ध्यमानः साधुर्भवति । अयमपि भविष्यत्कालः सन्साधुर्भवतीत्यर्थः । अथ वा - स्वयमपि भविष्यत्कालेना भिसम्बद्ध्यमानः, स्वकालपरित्यागेन भविष्यत्कालः सन्नित्यर्थः । अयं ह्यत्रार्थः - पुत्त्रोऽस्य जनिता स चाग्निष्टोमेन यष्टेति, तत्र यदि भूतकाल एव णिनिरवतिष्ठेन तदा यागस्य भविष्यतावगमो न प्राप्नोतीत्ययमारम्भः । एवमितरयोरप्युदाहरणयोर्द्रष्टव्यम् । अथ विपर्ययः कस्मान्न भवति, भविष्यत्कालो भूतकालेनाभिसम्बद्ध्यमानः स्वकालपरित्यागेन भूते साधुर्भवति, ततश्चाग्निष्टोमयाज्यस्य पुत्त्रो जात इत्ययं वाक्यार्थ इति ? तत्राहौविशेषणं गुणत्वादिति । प्रधानानुवर्ता गुणः, न गुणानुवतिं प्रधानम्, उभयोश्च स्वकालनिष्ठयोः स्म्बन्धानुपपतिरिति प्रधानानुरोधेन गुणस्य कालपरित्याग इत्यर्थः । प्रत्ययाधिकार इति । यद्यपि प्रकृतः प्रत्ययशब्दः स्वरूपपदार्थकः, तथापीह संज्ञेनामनिर्देशात्संज्ञिपदार्थको विज्ञास्यत इति भावः । अधात्वधिकारविहिता अपीति । अन्यथा प्रकृतानां धातुप्रत्ययानामेव ग्रहणं स्यात् । प्रत्ययग्रहणातु सर्वपरिग्रहार्थातद्धितानामपि कालान्तरेऽपि साधुत्वं भवति । गोमानासीत्, गोमान्भवितेति ।'तदस्यास्त्यस्मिन्' इति मतुप्प्रत्ययो वर्तमानसताविशिष्टेन प्रकृत्यर्थेन विशिष्टेऽर्थे विहितः । धातुसम्बन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुर्भवति । ततश्चायमत्रार्थः - गावोऽस्यासन् गोमानासीत्, गावोऽस्य भवितारः गोमान् भवितेति । धात्वधिकारादेव धातुग्रहणे सिद्धे पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थम्, तेनास्तिभूजनिसम्बन्धे तद्विशेषणानामेव कालान्यत्वेन साधुत्वं भवतीति केचित् । न चायं पक्षो भाष्ये सिद्धान्तत्वेन स्थापितः, तस्मादविशेषेण भवतीत्यन्ये । दृश्यते चान्यत्रापि कालान्यत्वलम् -'साटोपमुर्वीमनिशं नदन्तो ये प्लावयिष्यन्ति समन्ततो' मीऽ इत्यत्र । नदन्त इति वर्तमानकालः प्लावयिष्यन्तीति अवर्तमानेनाभिसम्बद्ध्यमानो भविष्यत्कालः सम्पद्यते । सूत्रप्रत्यख्यानं तु - अग्निष्टोमयाजीति भूत एव णिनिः, जनितेत्येतत्सम्बन्धातु केवलं व्यपदेशस्य भावित्वप्रतीतिः, अस्य सूत्रस्य शाटकं वयेतिवत् । ततश्च भाविव्यपदेशविज्ञानाद्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रत्येष्यते । अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः, अन्यथा भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्यौगपत्प्रयोगो न स्यात् । तस्मादिदानीमासीदित्येवं तत्रार्थः । गोमानासीदित्यत्रापि देवदतस्य विधमानत्वेऽपि गोमद्रूपस्यातीतत्वाद् भूतप्रत्ययः । तत्रार्थाद् गवामप्यतीतत्वं प्रतीयते, गोमच्छब्दस्तु स्वमहिम्ना वर्तमानसताविशिष्टमेव प्रकृत्यर्थमाह ॥