3-4-15 अवचक्षे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि कृत्यार्थे
कृत्यार्थे छन्दसीत्येव। अवपूर्वाच् चक्षिङ एश् प्रत्ययो निपात्यते। रि॒पुणा॒ नाव॒चक्षे॑ (मा०सं० १७.९३)। नावख्यातव्यमित्यर्थः॥
रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥
एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङ्ः ख्याञ् न भवति ॥