कृत्यार्थे तवैकेन्केन्यत्वनः

3-4-14 कृत्यार्थे तवैकेन्केन्यत्वनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसीत्येव। कृत्यानामर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वन् इत्येते प्रत्यया भवन्ति। तवै — अन्वे॑त॒वै (ऋ०७.४४.५)। अन्वेतव्यम्। परि॑धात॒वै (शौ०सं० २.१३.२)। परिधातव्यम्। परिस्तरितवै (काठ०सं० ३२.७)। परिस्तरितव्यम्। केन् — नावगाहे। नावगाहितव्यम्। केन्य — दि॒दृ॒क्षेण्यः॒ (ऋ० १.१४६.५)। शुश्रूषेण्यः (तै०आ० ४.१.१)। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन् — कर्त्वं॑ ह॒विः (शौ०सं० १.४.३)। कर्तव्यम्। तुमर्थे छन्दसीति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्टव्यः॥

Siddhanta Kaumudi

Up

नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । शृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र'तुमर्थे सेसेनसे' इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ॥