3-4-11 दृशे विख्ये च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि तुमर्थे
तुमर्थे छन्दसीत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः। दृ॒शे विश्वा॑य॒ सूर्य॑म् (ऋ०१.५०.१)। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्॥
द्रष्टुं विख्यातुमित्यर्थः ॥
<<दृशे विख्ये च>> - अथाशीर्लिङि विशेषमाह — लिङाशिषि ।लि॑ङिति लुप्तषष्ठीकं पदम् । तिङ्शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते । तदाह — आशिषि लिङस्तिङिति । सार्वधातुकसंज्ञाऽपवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति ।
योगविभागश्चिन्त्यप्रयोजनः ॥