3-3-100 कृञः श च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां उदात्तः क्यप्
index: 3.3.100 sutra: कृञः श च
करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति। चकारात् क्यप् च। योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया, कृत्या, कृतिः।
index: 3.3.100 sutra: कृञः श च
कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥
index: 3.3.100 sutra: कृञः श च
योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा'सार्वधातुके यक्' रिङ्शयग्लिङ्क्षुऽ इति रिङदेशः, अन्यत्र शकार एव परतो रिङदेशः, ठचि श्नुधातुऽ इत्यादिनेयङ् ॥