3-3-98 व्रजयजोः भावे क्यप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां उदात्तः
उदात्त इत्येव। व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवत्युदात्तः। क्तिनोऽपवादः। व्रज्या। इज्या। पित्करणमुत्तरत्र तुगर्थम्॥
व्रज्या । इज्या ॥
इज्येति । वच्यादिसूत्रेण संप्रसारणम् । यद्यौदात इति वर्तते, पित्करणं किमर्थमित्यत आह - पित्करणमुतरत्र तुगर्थमिति ॥