मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः

3-3-96 मन्त्रे वृषेषपचमनविदभूवीराः उदात्तः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां क्तिन् भावे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावे स्त्रियामिति वर्तते। मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन् प्रत्ययो भवत्युदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं कृतम्? वैचित्र्यार्थम्। वृ॒ष्टिः (ऋ० १.३.८.८)। इष्टिः (ऋ० ४.४.७)। प॒क्तिः(ऋ० १.२४.५)। म॒तिः (ऋ० १.१४१.१) वित्तिः॑ (मा०सं० १८.१४)। भूतिः॑ (मा०सं० १८.१४)। वी॒तिः (शौ०सं० २०.६९.३)। रा॒तिः (ऋ० १.३४.१)। सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन्। उदात्तार्थं वचनम्। इषेस्तु <<इच्छा>> ३.३.१०१ इति निपातनं वक्ष्यति। ततः क्तिन्नपि विधीयते। मन्त्रादन्यत्रादिरुदात्तः॥

Siddhanta Kaumudi

Up

वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रकृतिप्रत्यययोरिति । प्रकृतिसामान्यविवक्षायां द्विवचनम्; अन्यथा बहुत्वात्प्रकृतीनां बहुवचनप्रसङ्गात् । विभक्तिविपरिणामेनेति । वृषादीनां द्वन्द्वे या प्रथमा तस्याः पञ्चमीभावेन यो विपरिणामस्तेन प्रकृतिप्रत्यययोः संबन्धः, अन्यथा संबन्धानुपपतिरित्यर्थः ।'वृषु सेचने' , ठिषु इच्छायाम्ऽ वृषिसाहचर्यादुदितो ग्रहणम् । सूत्रे त्वकारो न विवक्षितः ।'मन ज्ञाने' ,'मनु अवबोधने' द्वयोरपि ग्रहणम् । विदादीनामपि यथादर्शनम् । सर्वत्रेति । मन्त्रे चामन्त्रे चेत्यर्थः । वृषादिभ्यः क्तिप्रत्यये विधातव्ये उदातवचनमुतरार्थम्, व्रजयजोर्भावे क्यबुदातो यथा स्यात् । प्रमतिरित्यादौ च'तादौ च निति कृत्यतौ' इति पूर्वपदप्रकृतिस्वरार्थं च । पिबतेरपि मन्त्रे क्तिन्नुदातो दृश्यते - त्वं सुतस्य पीतये, मध्वः सोमस्य पीतये इति ॥