3-3-95 स्थागापापचः भावे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् स्त्रियां क्तिन्
स्त्रियामिति वर्तते। स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति। अङोऽपवादस्य बाधकः। प्रस्थितिः। उद्गीतिः। संगीतिः। प्रपीतिः। संपीतिः। पक्तिः। भावग्रहणमर्थान्तरनिरासार्थम्। कथमवस्था संस्थेति? व्यवस्थायामसंज्ञायाम् १.१.३४ इति ज्ञापकाद् नात्यन्ताय बाधा भवतीति॥
क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥
अङेऽपवादस्य बाधक इति । स्थादिभ्यः ठातश्चोपसर्गेऽ इति प्राप्तस्य । पचेस्तु पित्वात्प्राप्तस्याङेऽपवादः । कांस्थायिकाम्, स्थायिमित्यत्र'विभाषाख्यानपरिप्रश्नयोः' इति प्राप्तयोर्ण्वुलिञोरपि बाधकः कस्मान्न भवति ?'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोतरान्' इति । कथमिति । न कथञ्चिद्; वासरूपबिधेरभावात् । नात्यन्तायेति । नियमेन चतुर्थ्यन्तप्रतिरूपकोऽयं निपातः, यथा - चिरायेति ॥