3-3-93 कर्मणि अधिकरणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् घोः किः
घोरित्येव। कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवत्यधिकरणे कारके। जलं धीयतेऽस्मिन्निति जलधिः। शरधिः। अधिकरणग्रहणमर्थान्तरनिरासार्थम्। चकारः प्रत्ययानुकर्षणार्थः॥
कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥
कर्माधिकरणयोः पृथक् पृथक् सप्तमीनिर्देशान्न तावदुभयोरुपपदत्वम्, तत्र व्याख्यानात्कर्मोपपदम्, अधिकरणं तु प्रत्ययार्थ इत्याह - कर्मण्युपपद इति । अथिकरणग्रहणमर्थान्तरनिरासार्थमिति । अर्थान्तरं भावः, करणादि च कारकम् ॥