3-3-9 लिङ् च ऊर्ध्वमौहूर्तिके प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट् विभाषा लोडर्थलक्षणे
index: 3.3.9 sutra: लिङ् चोर्ध्वमौहूर्तिके
भविष्यति, विभाषा, लोडर्थलक्षणे इति सर्वमनुवर्तते। ऊर्ध्वमौहूर्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानात् धातोर्विभाषा लिङ्प्रत्ययो भवति, चकाराल् लट् च। ऊर्ध्वं मुहूर्ताद् भवः ऊर्ध्वमौहूर्तिकः। निपातनात समासः, उत्तरपदवृद्धिश्च। भविस्यतश्च एतद् विशेषणम्। ऊर्ध्वं मुहूर्तातुपरि मुहूर्तस्य उपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व।
index: 3.3.9 sutra: लिङ् चोर्ध्वमौहूर्तिके
ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुरूर्तादुपरि उपाध्यायश्चेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥
index: 3.3.9 sutra: लिङ् चोर्ध्वमौहूर्तिके
लिङ् चोर्ध्वमौहूर्तिके - लिङ् चोध्र्वमौहूर्तिके ।ऊध्र्व॑मिति विभक्तिप्रतिरूपकमव्ययम् । ऊध्र्वं मुहूर्ताद्भव इति विग्रहः । केचित्तुऊध्र्व॑मिति द्वितीयान्तम्,अकर्मकधातुभिर्योगे॑ इति कर्मत्वादित्याहुः । ऊध्र्वमौहूर्तिक इति । ऊध्र्वमुहूर्तशब्दाद्भवार्थे कालाट्ठिति भावः । ननु तद्धितार्थेत्यत्र दिक्सङ्ख्ये इत्यनुवृत्तेः समानाधिकरणाधिकाराच्चात्र कथंसमास इत्यत आह — निपातनादिति । पूर्वपदे आदिवृद्धिमाशङ्क्य आह — उत्तरपदवृद्धिश्चेति । निपातनादित्यनुषज्यते । ऊध्र्वमौहूर्तिके इति । मुहूर्तादूध्र्वकालीने इत्यर्थः । इदं च लोडर्थलक्षण इत्यत्रान्वेति । लिङ्लटाविति । चाल्लट् समुच्चीयत इति बावः । वा स्त इति । पक्षे लुट्लृटौ यथाप्राप्तम् । छन्द इति । वेदमित्यर्थः । इति तृतीयस्य तृतीये भविष्यतीत्यधिकारस्था लविधयः । अथाऽस्मिन्नेव तृतीयपादे कतिपयान्विधीनाह —
index: 3.3.9 sutra: लिङ् चोर्ध्वमौहूर्तिके
निपातनात्समास उतरपदवृद्धिश्चेति । ठञ्प्रत्ययश्चाध्यात्प्रादित्वात् ।'बह्वचो' न्तोदातात्ऽ इत्यत्र तु'व्याख्यातव्यनाम्नः' इति वर्तते । उपाध्यायश्चेदागन्तेति । ऊर्ध्वमौहूर्तिकेऽनद्यतनत्वं सम्भवतीति चिन्त्यम् ॥