लोडर्थलक्षणे च

3-3-8 लोडर्थलक्षणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट् विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लोडर्थः प्रैषादिर्लक्ष्यते येन, स लोडर्थलक्षणो धात्वर्थः, तत्र वर्तमानाद् धातोर्भविष्यति काले विभाषा लट् प्रत्ययो भवति। उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व। उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम्॥

Siddhanta Kaumudi

Up

लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लोडर्थलक्षणे च>> - लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति ।विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु॑ इत्यनुवृत्तौलोट् चे॑ति लोड्विधानादिति भावः । कृष्णश्चेदिति । कृष्णबोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचारणप्रैषस्य लक्षणम्, परिच्छेदकमिति यावत् । पक्षे लुट्लृटाविति । कृष्णश्चेद्भोक्ता, भोक्ष्यते वा, त्वं गाश्चारयेत्युदाहार्यम् ।

Padamanjari

Up

अध्ययनप्रैषस्येति ।'कर्तृकरणे कृता बहुलम्' इत्यत्र साधनं कृतेति वा पादहारकाद्यर्थमिति वचनात्सप्तमीसमासः ॥