3-3-88 ङ्वितः क्त्रिः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्
भावेऽकर्तरि च कारक इति वर्तते। डु इद् यस्य, तस्माद् ड्वितो धातोः क्त्रिः प्रत्ययो भवति। <<क्त्रेर्मम्नित्यम्>> ४.४.२० इति वचनात् केवलो न प्रयुज्यते। <<डुपचष् पाके>> — पक्त्रिमम्। <<डुवप बीजसंताने>> — उप्त्रिमम्। <<डुकृञ् करणे>> — कृत्रिमम्॥
अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् <{SK1570}> नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
भावेऽकर्तरि च कारके इति वर्तत इति । अधिकारस्याविच्छेदं दर्शयति । अयं तु क्त्रिप्रत्ययः स्वभावाद्भाव एव भवति - पाकेन निर्वृतं पक्त्रिममित्युच्यते, न तु पक्वेनेति । केवलो न प्रयुज्यत इति । तेनावश्यमन्यशब्देनैव विग्रहः कर्तव्यः । तद्दर्शयति - पाकेन निर्वृतं पक्त्रिममिति । उप्त्रिममिति । यजादित्वात्सम्प्रसारणम् । अथ ड्विनः क्त्रिममित्येव कस्मान्नोक्तम्, एवं हि'क्त्रेर्मम् नित्यम्' इति न वक्तव्यं भवति ? नैवं शक्यम्,'भावे' इत्यधिकाराद्भावेऽपि कृत्रिममिति प्राप्नोति । अथाप्यभयानुवृतावप्यभिधानस्वाभाव्यात्कारक एव कर्मणि भवेत् ? एवमपि भूतकालो न गम्येत । एतदप्यभिधानस्वाभाव्याद्भवतु नाम ? एवमर्थाभिधाने प्रकारभेदो न स्यात्, न हि पक्वपक्त्रिमशब्दयोः पर्यायतां मन्यन्ते ॥