3-3-87 निघः निमितम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
निघ इति निपूर्वाद् हन्तेरप् प्रत्ययः टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति। समन्ताद् मितं निमितम्, समारोहपरिणाहम्। निघा वृक्षाः। निघाः शालयः। निमितमिति किम्? निघातः॥
समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ॥
समारोहपरिणाहमिति । आरोहःऊच्छ्रायः, परिणाहःउविस्तारः, तौ समानौ यस्य ततथोक्तम् । निघा वृक्षा इति । निविशेषं हन्यन्ते ज्ञायन्ते इति कर्मण्कम् ॥