संघोद्घौ गणप्रशंसयोः

3-3-86 सङ्घोदधौ गणप्रशंसयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

समुदोरुपपदयोर्हन्तेर्धातोरप् प्रत्ययो भवति, टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम्। संघः पशूनाम्। उद्घो मनुष्याणाम्। गणप्रशंसयोरिति किम्? संघातः॥

Siddhanta Kaumudi

Up

संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥