3-3-85 उपघ्नः आश्रये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्
उपपूर्वस्य हन्तेरप् प्रत्यय उपधालोपश्च निपात्यत आश्रयेऽभिधेये। आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति। पर्वतोपघ्नः। ग्रामोपघ्नः। आश्रय इति किम्? पर्वतोपघात एवान्यः॥
उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ॥
आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यतेउसामीप्येन गम्यत इति कर्मण्यम् ॥