3-3-84 परौ घः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् करणे
करणे हन इत्येव। परिशब्द उपपदे हन्तेर्धातोरप् प्रत्ययो भवति करणे कारके, घशब्दश्चादेशः। परिहन्यतेऽनेनेति परिघः। पलिघः॥
परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥
पलिघ इति ।'परेश्च घाङ्कयोः' इति विभाषा लत्वम् ॥