स्तम्बे क च

3-3-83 स्तम्बे कः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् करणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

करणे हन इति वर्तते। स्तम्बशब्द उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति चकारादप् च, तत्र घनादेशः। स्तम्बघ्नः, स्तम्बघनः। स्त्रियां स्तम्बघ्ना स्तम्बघनेतीष्यते। करण इत्येव — स्तम्बघातः॥

Siddhanta Kaumudi

Up

स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः,'गमहन' इत्युपधालोपः,'हो हन्तेः' इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात्'कृत्यल्युटो बहुलम्' इति वचनाद्वा लभ्यते अन्ये पुनः ठूतियूतिजूतिसातिहेतिऽ इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु'करणाधिकरणयोश्च' इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा - रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ॥