करणेऽयोविद्रुषु

3-3-82 करणे अयोविद्रुषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हन इति वर्तते। अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारकेऽप् प्रत्ययो भवति, घनादेशश्च। अयो हन्यतेऽनेनेत्ययोघनः। विघनः। द्रुघनः। द्रुघण इति केचिदुदाहरन्ति। कथं णत्वम्? अरीहणादिषु पाठात्। <<पूर्वपदात् संज्ञायामगः>> ८.४.३ इति वा॥

Siddhanta Kaumudi

Up

एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां <{SK857}> इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्रुघन इति । द्रुरिति वनस्पतिनाम्,'वनस्पतयो वै द्रवः' इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥