3-3-7 लिप्स्यमानसिद्धौ च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति लट् विभाषा
विभाषेत्येव। लिप्स्यमानात् सिद्धिर्लिप्स्यमानसिद्धिः। लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोर्विभाषा लट् प्रत्ययो भवति। अकिंवृत्तार्थोऽयमारम्भः। यो भक्तं ददाति, स स्वर्गं गच्छति। यो भक्तं दास्यति, स स्वर्गं गमिष्यति। यो भक्तं दाता, स स्वर्गं गन्ता। लिप्स्यमानाद् भक्तात् स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति॥
लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स स्वर्गं याति यास्यति याता वा ॥
<<लिप्स्यमानसिद्धौ च>> - लिप्स्यमानसिद्धौ च । लड्वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति — योऽन्नमिति । योऽन्नं ददाति स स्वर्गं याति, योऽन्नं दास्यति स स्वर्गं यास्यति, योऽन्नं दाता स स्वर्गं यातेत्यन्वयः ।
'लिप्स्यमानसिद्धौ' इति षष्ठीसमासः । वृतौ तु वस्तुमात्रमदर्शि । लिप्स्यमानात्सिद्धिरिति । अस्मादेव निपातनाद्वा पञ्चमीसमासः । लिप्स्यमानं भक्तादि तन्निमिता या स्वर्गादेः सिद्धिस्तस्यामित्यर्थः । ननु च यत्र लिप्स्यमानस्य सिद्धिर्गम्यते, लिप्सापि तत्र भवति, ततश्च पूर्वेणैव सिद्धं नार्थ एतेन ? तत्राह - अकिंवृतार्थोऽयमारम्भ इति । पूर्वसूत्रे किवृतग्रहणं लिप्स्यमानसिद्धिरहिते लिप्सामात्रे किंवृत एव यथा स्याद्, अकिंवृते मा भूदित्येवमर्थम् ॥