अन्तर्घनो देशे

3-3-78 अन्तर्धनः देशे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् हनः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्तःपूर्वाद् हन्तेरप् प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये। अन्तर्घनः। संज्ञीभूतो वाहीकेषु देशविशेष उच्यते। अन्ये णकारं पठन्ति — अन्तर्घणो देश इति, तदपि ग्राह्यमेव। देश इति किम्? अन्तर्घातोऽन्यः॥

Siddhanta Kaumudi

Up

वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥