अगारैकदेशे प्रघणः प्रघाणश्च

3-3-79 अगारैकदेशे प्रघणः प्रघाणः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये। प्रघणः। प्रघाणः। द्वारप्रकोष्ठो बाह्य उच्यते। अगारैकदेश इति किम्? प्रघातोऽन्यः॥

Siddhanta Kaumudi

Up

द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

द्वारप्रकोष्ठो बाह्य उच्यत इति । द्वार प्रदेशे द्वौ प्रकोष्ठावलिन्दौ - आभ्यन्तरः, बाह्यश्च । तत्र बाह्यए प्रकोष्ठे निपातनम्, नागारैकदेशमात्रे । ऐतच्च निपातनाल्लभ्यते । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति अप् कर्मणि, पक्षे वृद्धिश्च ॥