मूर्तौ घनः

3-3-77 मूर्तौ घनः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् हनः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हन इत्येव। मूर्तिः काठिन्यम्। मूर्तावभिधेयायां हन्तेरप् प्रत्ययो भवति, घनश्चादेशः। अभ्रघनः। दधिघनः। कथं घनं दधीति? धर्मशब्देन धर्मी भण्यते॥

Siddhanta Kaumudi

Up

मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम् -'धर्मशब्देन धर्मी भण्यते' इति वक्तव्योऽत्र समासः ॥