हनश्च वधः

3-3-76 हनः च वधः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् भावे अनुपसर्गस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावेऽनुपसर्गस्येति वर्तते। हन्तेर्धातोरनुपसर्गे भावेऽप् प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः। तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भाव इत्येव — घातः। अनुपसर्गस्येत्येव — प्रघातः। विघातः। चकारो भिन्नक्रमत्वाद् नादेशेन संबध्यते। किं तर्हि? प्रकृतेन प्रत्ययेन। अप् च, यश्चापरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते॥

Siddhanta Kaumudi

Up

अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

स चान्तोदात इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदातत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह - तत्रेति । अन्तोदातत्वे सतीत्यर्थः । उदातनिवृत्तिस्वरेणेति । ठनुदातस्य च यत्रोदातलोपःऽ इत्येव उदातनिवृत्तिनिमितत्वादुदातनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते - हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रेऽ सम्प्रसारणविधानसामर्थ्यात् ॥