3-3-74 निपानम् आहावः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् ह्वः सम्प्रसारणं
आङ्पूर्वस्य ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते। निपानमिति किम्? आह्वायः॥
आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥
आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह - तत्र हीति ॥