3-3-73 आङि युद्धे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप् ह्वः सम्प्रसारणं
आङ्युपपदे ह्वयतेर्धातोः संप्रासरणमप् प्रत्ययश्च भवति युद्धेऽभिधेये। आहूयन्तेऽस्मिन्नित्याहवः। युद्ध इति किम्? आह्वायः॥
आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥