प्रजने सर्तेः

3-3-71 प्रजने सर्तेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्तेर्धातोः प्रजने विषयेऽप् प्रत्ययो भवति। घञोऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवामुपसरः। पशूनामुपसरः। स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुच्यते॥

Siddhanta Kaumudi

Up

प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-<{SK3296}> इति घः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रजननं प्रजनः, भावे घञ्,'जनिवध्योश्च' इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा - प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह - प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे'पुंसि संज्ञायां घः प्रायेण' ॥