प्रजने सर्तेः

3-3-71 प्रजने सर्तेः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Kashika

Up

index: 3.3.71 sutra: प्रजने सर्तेः


सर्तेः धातोः प्रजने विषये अप् प्रत्ययो भवति। घञोऽपवादः। प्रजनं प्रथमं गर्भग्रहणम्। गवामुपसरः। पशूनामुपसरः। स्त्रीगवीषु पुंगवानाम् गर्भाधानाय प्रथममुपसरणमुच्यते।

Siddhanta Kaumudi

Up

index: 3.3.71 sutra: प्रजने सर्तेः


प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-<{SK3296}> इति घः ॥

Padamanjari

Up

index: 3.3.71 sutra: प्रजने सर्तेः


प्रजननं प्रजनः, भावे घञ्,'जनिवध्योश्च' इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा - प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह - प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे'पुंसि संज्ञायां घः प्रायेण' ॥