अक्षेषु ग्लहः

3-3-70 अक्षेषु ग्लहः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् अप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ग्लह इति निपात्यते, अक्षविषयश्चेद् धात्वर्थो भवति। ग्रहेरप् सिद्ध एव, लत्वार्थं निपातनम्। अक्षस्य ग्लहः। अक्षेष्विति किम्? ग्रहः पादस्य। अन्ये ग्लहिं प्रकृत्यन्तरमाहुः। ते घञं प्रत्युदाहरन्ति। ग्लाहः॥

Siddhanta Kaumudi

Up

अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अक्षस्य ग्लह इति । भावेऽप्, अक्षस्य ग्रहणमित्यर्थः । अन्ये त्वाहुः - अक्षशब्देनात्र तत्साधनं देवनं लक्ष्यते, अक्षकर्मणि देवनविषये यत्पणरूपेण ग्राह्यं तद् ग्लहशब्देनोच्यते । तथा च माघः -'व्यात्युक्षीमभिरणग्लहामदीव्यन्' इति । वृतावप्यक्षस्य ग्लह इत्यक्षसाधनस्य देवनस्य पणबन्ध इत्यर्थः ॥